________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
चैतन्यचन्द्रोदयस्य
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः । भावे कुतः कृष्णः पच्ते यस्य कलेः क्षयः ॥ कलिः । सखे नायमाक्षिप्यतामवधारय । यतः गतः स कालो मम साम्प्रतं सखे
हतप्रभावोऽस्मि कुमारकादतः । महौषधेरङ्कुर निर्गमादिव
Acharya Shri Kailassagarsuri Gyanmandir
क्षतप्रभस्तक्षक नागपुङ्गवः ॥
अधर्म्मः
अधः । युगराज कोऽसैौ कुमारकः किं कुत्सितो मारकः
किं कोः पृथिव्या वा मारकः । .
कलिः। नोभयम् । नोभयं ना भयं कर्त्तुमीष्टे किन्तु नवदीपे जगन्नाथनाम्ना मिश्रपुरन्दराज्जातः शच्च कुमारोऽयं मम मम्मीणि कृन्तति ॥
अध । विहस्य । हंहा युगराज । यस्योच्चैर्भुजदण्डचण्डिममहामार्त्तण्डतेजोभयान् मूको घूक इवाद्रिकन्दरगतः पादैकशेषो वृषः । स त्वं मद्दिधत्य सेवितपदो भूदेवबालादतो भीतिं विन्दसि हन्त कोऽयमतुलश्चित्तस्य ते विभ्रमः ॥ कलिः । सखे नायं केवलो भूदेवबालः । श्रपितु बाल
देवदेवः ।
तथाहि । हरिहरि हरिभक्तियोगशिक्षा सरसमना जगदेव निष्पुणानः । हरिरिह कनकाजकान्तकान्तिर्द्विजभवनेऽवततार बाललीलः ॥
For Private And Personal Use Only