________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमाझे राजवातीहारिणोऽभिनयः ।
२२३
तथा हि। कचन च यमुनावनान्तलक्ष्मी
मवकलयन्ननुरक्तिमुक्तकण्ठम् । विलपति परिरभ्य लोभ्यबाहुः
प्रतिलतिकं प्रतिशाखि सोऽखिलेशः ।। अपि च। नैचिकीनिचयवीक्षणमादा
दुन्मदः स्खलितवान् गलदस्रः। स्यन्दमानसुरसिन्धुरिवासी
दातभन इव मेरुतटान्तः ॥ राजा। ततः। वातीहा। ततस्तैः कथितम्।
मदमुदितमयूरकण्ठकान्तद्युतिमभिवीक्ष्य कुतश्चिदप्यकस्मात् । स्वलति लूठति वेपते विरौति
द्रवति विषादति हन्त मूर्च्छतोशः ॥ अपि च। कापि वत्मकुलमुच्चलपुच्छ
धावमानमनुवीक्ष्य वनान्तः। कण्टकावलिनि वर्त्मनि सद्यो
वीक्षताङ्गमभितः सवलतीशः ।। राजा। ततः। वाताहा।
कुञ्जसीमनि कदाऽपि यदृच्छामूर्छया निपतितस्य धरण्याम्।
For Private And Personal Use Only