________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
चैतन्यचन्द्रोदयस्य काशी। देव परीक्षामहापात्रं निवेद्य मयैव तथाकारितमस्ति कतिचिदागतप्राया एव । प्रविश्य दौवारिकः। देव महाप्रभावातीहारिणो दारि वर्तन्ते। राजा। प्रवेश्यन्ताम् । दौवा । तथा करोति। प्रविश्य वाताहारिणः । जयति जयति देवः । राजा । कथयत किं जानीथ । वाताहा। सर्वमेव जानीमः ।
प्रत्यावृत्तः स मधुपुरतो दृष्टवृन्दावनश्रोः कुञ्ज कुञ्ज तरणितनयाकूलतः क्लृप्तकलिः । गत्वा गोवईनगिरिवरं कानने कानने च
भ्रान्त्वा भ्रान्त्वा दिनकतिपयं वर्त्मनोशा व्यलोकि॥ राजा। अरे वृन्दावने किं किं कृतं भगवता तज्जानासि । वाताहा। अथ किम् । तत्मङ्गे समागतानां केषाच्चिद्भाग्यभाजां मुखतः श्रुतम्।
राजा। कथ्यताम्। वाताहा। आविर्भावादवधि म निजानन्दवृन्दैककन्दा
यद्यप्युच्चैः प्रथयतितरां तद्विकारप्रकारान्। वृन्दारण्योपगमसमये हन्त ते ते तरङ्गा वृद्धि प्रापुर्यदुपरि वचश्चित्तयोनी निवेशः ।।
For Private And Personal Use Only