SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमाळे राजकाशीमिश्राधभिनयः। २२१ लोकसङ्गुलभिया वनावना निद्भुतः स मथुरा जगाम च ॥ राजा। सविस्मयम्। काशोमिश्रस्य स्वर इव श्रूयते तदाहूयताम्। प्रविश्य सत्वरम्। काशोमिश्रः । देव अयमयमनाहूत एवागतः । राजा। कथय किं तत्त्वमिदम्।। काशी। सत्यमेव लोकभिया ततोऽपि निवृत्तः। ततोऽपि केनाप्यविदित एव चलितवान्। राजा। सार्वभौम अस्माकन्तु समः पन्थाः विच्छेददुःखस्य तुल्यफलत्वात् । एकाकिनस्तस्य निर्वाहः कथं भवतु। काशी। भिक्षायोग्याः कियन्तो विप्राः प्रेषिताः सन्ति। भगवता तु तत्रज्ञायते। राजा। साधु मिश्र साधु किमप्युक्वा गतम्। काशी। आगतप्रायोऽहमिति। राजा । तत्किंदिनं भविष्यति । भट्टाचार्यः । जङ्घाजोविनः कियन्तो गच्छन्तु यथा भगवतो वाती प्रापयन्ति। सार्व। उचितमेवैतत् । राजा । काशोमिश्रमहापात्रं चन्दनेश्वरं मदाज्ञया समादिश यथैवं करोति। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy