________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य किं तारा वा मनुजवपुषः पेतुरुयी नभस्तः । एवं गङ्गातटतः कप्टेनैव तद्बाटोमभ्याययौ देवः । राजा । ततस्ततः। पुरु। ततस्ता रजनों तत्रैव गमयित्वा परेद्यवि नौ-वर्मनैव चलितवान्।
अथो अविच्छिन्नाभप्रवाहा निरन्तराया चपलोभिहस्ता। निरन्तरं विष्णुपदावतारा
गङ्गेव दीर्घा जनपतिरासीत् ॥ ततः कुमारहट्टे श्रीवासपण्डितवाटोमभ्याययौ। तत्र च गङ्गातोराहाटीपर्यन्तगमने यत्र यत्र पदमर्पयतीशस्तत्र पादरजसा ग्रहणाय प्राणि-पाणिपतनेन स पन्था हन्त गर्त्तमय एव बभूव । तत्रोत्तीर्ण एव भगवति जगदानन्दः शिवानन्दालये भगवदगोचर एव गतवान्। तत्र तेन चिरमेव स्थित'मिति तदाशक्त्या भगवानवानेतव्य इति रचनावैशिष्ट्यमपि कृतवान्। अथ
प्राचीरस्योपरि विटपिना सर्वशाखासु भूमौ रथ्या रथ्यामनु पथि पथि प्राणिषु प्राप्तवत्सु। उच्चैरुच्चैर्वद हरिमिति प्रौढघोषेषु देवो
रात्रीशषे तरिमधि शिवानन्दनीतः प्रतस्थे ॥ ततो जगदानन्देनोभयोः पार्श्वयोः कदलीस्तम्भपूर्णकुम्भमु
For Private And Personal Use Only