________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य पुरु। आगत्य कथितम् । यदि त्वमनुमन्यसे तदा भवहेशादागच्छन्तं श्रीकृष्णचैतन्यदेवमहं विलोकये।
राजा। ततस्ततः । पुरु। ततोऽनेनोक्तम्। त्रिचतुरैश्चेदायात तदायातु नामेति श्रुत्वा तथैवागतो भगवत्पादसमीपभूमौ निपतितश्चिरं प्रणनाम। ततः सङ्घरुक्तम्। भगवन्नस्य साहाय्येनैव सुखेन गन्तं शक्यते । एनं प्रति कृपावलोकः क्रियतामिति तदनुरोधेन तं प्रति कृतकपाते भगवति स यवनः पुलकाश्रुगद्गदखरो भवन् ग्रहग्रस्त इव जातः। ततो गोपीनाथाचार्योक्तम् । अये महाप्रभुरयं सुखेन कथं चलति ।
राजा। ततस्ततः। पुरु। ततस्तेनोक्तं कियदरं भवद्भिर्गन्तव्यम्। तदनु गोपीनाथेनोक्तम्। गन्तव्यं तावत् पाणीयहाटीपर्यन्तमिदानीम्। .. राजा। ततस्ततः। पुरु । ततः।
प्रफुल्लरोमा गलदश्रुधारः सगगदं किच्चिदसौ जगाद। अहो मदीयं महदेव भाग्य
देवस्य साहाय्यविधौ भवेयमिति ॥ सकलसज्जननाविकैर्वाह्यमाना नवोना तरणिर्मध्यगृहशालिनी पुनः प्रक्षालिता क्षणेनाधिनदि समानायिता। अनन्तरं नोकान्तरं स्वयमप्यारुह्य भगवन्त एनामधिरोहन्त्विनि निग
For Private And Personal Use Only