SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य २१४ दौवारिकः । देव रामानन्दरायो द्वारमधितिष्ठति । राजा । त्वरितमानीयताम् । दौवा । यथाज्ञापयति । इति निष्कृम्य तमादाय प्रविशति । राजा । उपसृत्य प्रणमति । मारा। सादरमुपवेश्य । कथय कियद्दरं भवाननुगतोदेवम् । रामा । इत इतो निवर्त्तखेति प्रतिपदमुक्तोऽपि भद्रकपर्य्यन्तमनुगतवानस्मि । महाराज दुस्त्यजेो हि व्यवहारमार्गः । यतः तमपि परमदीनाद्वारिकारुण्यसिन्धुं शिव शिव परिहाय त्वद्भियैवागतोऽहम् । कथमद्दह न जातस्तत्र मे देहपातः कुलिशकठिनमूर्त्तेही यतोऽहं निवृत्तः ॥ इत्यभूमि मुच्चति । सार्व्व । रामानन्द त्वमतिधोरोऽसि कथमेवमुत्ताम्यसि ईश्वरो हि तथाविधलील एव । व्रजवासिनो विहाय मथुरां गतः पुनस्ततोऽपि द्वारवत्यां पुनस्ततोऽपि क्वचित् क्वचित् । तत्रत्याः कथं सहन्तस्म तदिरहम् । यद्यपि दुःसह एव भगवद्विरद्दस्तथाऽपि स एव तं साक्ष्यते तद लमनुशोचनेन । राजानमधुना सान्त्वयितुमर्हसि न पुनः खखेद प्रकटनेन खेदयितुम् । राजा । कथय । रामा । भवदधिकारं यावद्भवदीया एव गच्छन्ति तदूर्द्धं मदीयाः पथि प्रज्ञा एव गौडराष्ट्रं यावद्यास्यन्ति केचित्तेषां For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy