SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमाजे राजासार्वभौमयोरभिनयः । २१३ तेनास्य भगवान् वश एव अतस्तदुपरोधेन भगवता त्वय्येनादृशोऽनुग्रहः कृतः। राजा । रामानन्देन कियहरमनुव्रजितव्यम् । भट्टा। भद्रकपर्यन्तमिति तम्। राजा। स्वामिनः सङ्गे कियन्तश्चलिताः। साव। पुरीश्वर-दामोदर-जगदानन्द-गोपीनाथ-गोविन्दाद्याः पञ्चषा एव। राजा। हन्त। यदपि जगदधीशो नीलशैलस्य नाथः प्रकटपरमतेजा भाति सिंहासनस्थः । तदपि च भगवच्छीकृष्णचैतन्यदेवे चलति पुनरुदीची हन्त ट्रन्या त्रिलोकी॥ सार्व। राजन् निरुपधिप्रेम्णो हीदृशः प्रकाशः । राजा। अस्मदीयः कोऽपि न गतः प्रभारनुपदम्। सार्व। राजन् प्रेम्णैवेदमुच्यते क तस्य त्वदीयजनापेक्षा। तथापि तवाधिकारं यावत् तव लेखमादाय पूर्वमेव कश्चिगतोऽस्ति करिष्यति च स एव सर्वसमाधानम्। प्रतिवसति नवीना वासमये विधाय प्रतिगृहमुपचारै रिभिः पूरयित्वा । कृतसुरचनमुच्चैस्तत्र तत्राभियुक्तैः पदविहरणखेदं धुन्वते ते विशन्तः॥ भगवांस्तु रामानन्दस्य कृतिरियमित्येव जानाति। प्रविश्य । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy