________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
चैतन्यचन्द्रोदयस्य स्ली। ओ होइ एवं हाइ (१)। नेपथ्ये । भट्टाचार्य कथं रामानन्देनास्मिन् कर्मणि कृताऽनुमतिः ।
पुरु। प्रिये श्रुतमिदं यदभिहितं मया तदेवाधुना तदिच्छेदविधरो गजपतिरपि सार्वभौमेन सह सङ्कथयन्नास्ते। तदावामपि भगवन्तं नीलाचलचन्द्रं गानेनोपस्थातुं गच्छाव । इति निष्कान्तौ। प्रवेशकः । ततः प्रविशत्यासनस्थो राजा सार्वभौमश्च ।
राजा। भट्टाचार्य रामानन्दस्याग्रहपाशग्रन्थिशैथिल्येनैव भगवान् ग्रथितः।
सार्व। ईश्वरेण सा किमधिको हठः कर्तुं शक्यते । तथापि वर्षदयमेव विलम्बितः।
राजा। भट्टाचार्य रामानन्देन मे महानवोपकारः कृतः। तथा हि।
आनीतो राजधान्याः पथि पुरुकरणः कारितं चेक्षणं मे स्पर्शः पादाम्बुजस्य व्यधित मम दुरापोऽपि सम्यक सुखापः। वाक्पीयूषच्च सानुग्रहमतिमधुरं पायितं श्रोत्रपेयं यन्नाभूरियत्नस्तदजनि सहसा शून्यमन्तस्तथाऽपि। साव। महाराज रामानन्दो हि भागवतोत्तम एव । तथा हि। प्रणयरसनया धृताघ्रिपद्मः
स भवति भागवतप्रधान उक्तः।
१ मां भवति एवं भवति ।
For Private And Personal Use Only