________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
चैतन्यचन्द्रोदयस्य स्त्री। तदा तदा (१)। पुरु। ततस्तेषु गौडीयाः प्रिया गौडीयानां मध्ये येऽतिप्रियाः शतशो दृष्टवन्तस्तेऽप्यदृष्टवन्तोऽपि शभादृष्टवन्तो यथा अमी।
नरहरिरघुनन्दनप्रधानाः कति च न खण्डभुवाऽप्यखण्डभाग्याः। प्रथममिममदृष्टवन्त एते प्रतिशरदं पुरुषोत्तम लभन्ते।
कुलीनग्रामीणा अपि च गुणराजान्वयभुवो जना रामानन्दप्रभृतय इमे देवसुहृदः । तथान्यायाचार्योदय उपचितप्रेमसरसा
महाविद्यांसोऽमी प्रतिशरदमात्रोपगमिनः ॥ भगवन्नाम न्यायाचार्य्यस्तु पुरुषोत्तम एव भगवच्चैतन्य दर्शनाकाङ्क्षी यावज्जीवं स्थितः। एवमेषां साक्षादनुग्रहः ।
आगमनासमर्थानान्तु परहृदयमारुह्यानुग्रहः क्रियते । हृदयारोहयोग्यास्तु अद्वैतनकुलब्रह्मचार्यादयः । स्त्री। किच्चि कधेहि (२)। पुरु । अद्वैतारोहवाला तु प्रथीयसी तत्कथनं बहुकालसाध्यम्। नकुलब्रह्मचारिहृदयारोहः श्रूयताम्।
स्त्री। कधेहि अवहिदम्हि (३) । पुरु । अस्ति कश्चित् अम्बुग्रामे परमवैष्णव आजन्मब्रह्म
१ ततस्ततः। २ किञ्चित्कथय । ३ कथय अवहि ता स्मि।
For Private And Personal Use Only