________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२०४
चैतन्यचन्द्रोदयस्य
भगवान् । राजानं परित्यज्य तत्कलकलाकलित रथ प्रस्थान सत्वरः पुनर्जगन्नाथदिदृक्षया तथाविश्वसानन्दस्य एव निष्कामति ।
Acharya Shri Kailassagarsuri Gyanmandir
सर्व्वे । यथायथं तमनु निष्कामन्ति ।
गोपी । उपसृत्य । महाराज जगन्नाथ दर्शनार्थं गतो देवः सम्प्रति भवन्तोऽपि चलितुमर्हन्ति । इत्यानन्दतन्द्रितं राजानमादाय निष्क्रान्तः । इति निष्कान्ताः सर्व्वे ।
प्रतापरुद्रानुग्रहो नामाष्टमोऽङ्गः ॥
नवमाङ्कः ।
ततः प्रविशति किन्नर मिथुनम् ।
पुरुषः । प्रिये गतागतेभ्योऽपि सम्बत्सरेभ्यः खलु जगन्नाथस्य गुण्डि चोत्सवः परम रमणीयेो दृष्टः ।
स्त्री । कथम्बि (९) ।
पुरु। अस्मिन्नब्दे तु मूर्त्तिमतानन्देनैव कनकगिरिगारेण यतीन्द्रवेषधारिणा भक्तावतारेण श्रीकृष्णचैतन्येन महोत्सवा ऽयं सुरसत्वेन परमरमणीयो विहितः ।
स्त्री। हड्डी हवी अहं कथं सङ्ग ण णोदा । मए दहु पारिदं (२) ।
पुरु। प्रिये आगामिन्यब्दे दर्शनीया भवत्या ।
१ कथमिव ।
२ हा धिक् हा धिक् अक्षं कथं सङ्गे न नीता । मया द्रधुं न प्राप्तम् ।
For Private And Personal Use Only