________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्यछमाङ्के श्रीकृष्णचैतन्यसार्वभौमाद्यभिनयः। २०३ राजा। शनैरितस्ततोऽवलोकयन् सहसैवोपसृत्य दोलायमानं भगवचरणकमलयुगं परिघदीर्घाभ्यां दो दृप्तरमालिङ्गति ।
स। धालोक्य । अहो महानयमनर्थः। निमीलन्नयनकमलेन स्वानन्दावेशविवशेन भगवताऽयमलक्षित एव। यड्गवच्चरणौ दधार तदस्य न विद्मः किं भावि।
भगवान। खानन्दस्थ एव निमीलिताक्ष एवानिभालनेनैव गाळं परिवज्य।
को नु राजनिन्द्रियवान् मुकुन्दचरणाम्बुजम् ।
न भजेत्सर्वतोम्मत्युरुपास्यममरोत्तमैः।। इति पुनः पुनः पठति । गोपी। अहो कौतुकम्।
साहसं क च गुणाय कल्पते कापि दूषणतया च सिध्यति। साहसेन यदकारि भूभुजा
तत्तपोभिरखिलैश्च नाऽऽप्यते ॥ पुनर्निभाल्य।
महामल्लैर्यस्य प्रकटभुजवक्षःस्थलतटीविनिष्येषोङ्गमास्थिभिरिव विदधे विकलता। स एवायं माद्यत्करिवरकराक्रान्तकदली
तरुस्तम्भाकारो भवति भगवहादलितः ।। नेपथो कलकलः।
202
For Private And Personal Use Only