________________
Shri Mahavir Jain Aradhana Kendra
२०२
www. kobatirth.org
चैतन्यचन्द्रोदयस्य
Acharya Shri Kailassagarsuri Gyanmandir
निःस्पन्दमुज्वलरुचः सुशिखाः सुपूर्णस्नेहास्तमःक्षयकृतः प्रतिशाखिमूलम् । भान्ति शोभनदशास्त इमे महान्तो
निर्वातमङ्गलमहोत्सवदीपकल्पाः ॥ भवतु चैव कापि निम्टतमुपविश्य राज्ञः प्रवेशं प्रतिपाल
यामि । इति तथा करोति ।
ततःप्रविशति त्यक्तराजवेशः परिहितधातवसन युगलो राजा । राजा । सोत्कण्ठम् |
उत्कण्ठा भयतर्कयोर्बलवतोराच्छादनं कुर्व्वती मामुच्चैस्तरलीकरोति चरणैौ हाधिक् कथं स्तम्नुतः । हो देवपरीक्षाद्य भवतः प्रायः परीक्षा मम प्राणानामपि भाविनो नहि मम प्राणेषु कोऽपि ग्रहः ॥
इति शनैः शनैः परिक्रामति ।
गोपी। राजानं निर्वर्ण्य । हो चित्रम् । प्रभावमात्रैकनृदेवचिह्ना वीरो रसः सुप्त इवायमग्रे ॥ आनन्दशङ्काभयतर्कमिश्रः
कृच्छ्रेण विन्यस्यति पादपद्मम् ॥
परितः सर्व्वे च्यात्मगतम् । श्रहो मङ्गलसूत्रमुद्रितकरोऽयं राजा प्रतापरुद्रः कथमयं गृहीततपस्विविप्रवेषोऽ कस्मादुपसर्पति स्वामिनामुद्देगो भावी । तदवलोकयाम किमयं क रोति इति ।
For Private And Personal Use Only