________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अश्मा श्रीकृष्णचैतन्यसार्वभौमाद्यभिनयः। २०१ स्थितवति बलगण्डीमण्डपस्योपकण्ठं भगवति जगदीशे शान्तनृत्यो यतोन्द्रः । उपवनमनुगच्छन् पार्षदैः प्रेमवद्भिः
सहजयति नितान्तश्रान्तितो विश्रमाय ।। तदधुना नरपतिनाऽपि गूढवेषेण तत्राभिसर्त्तव्यमिति भट्टाचार्य्यस्येङ्गितेन ज्ञातमस्ति तदहमपि सत्वरमुपसमि। इत्युप सर्पति।
ततः प्रविशतिन्टत्यानन्दानुभवनिस्पन्दो निमीलितनयनो नयनाभिराम उपवनमण्डपमध्यास्य प्रसार्यमाणलोलच्चरणकमलनालदण्ड युगलो गलल्लोचनजलधौतवक्षाः साक्षादिव प्रेमानन्दः श्रीकृष्णाचैतन्यः प्रतितरमूलमेकैकमुपविष्टास्तूष्णीकाः पार्घदाश्च । भगवान्। अथात आनन्ददुर्घ पदाम्बुजं
___ हंसाः श्रयेरनरविन्दलोचन। इति श्लोकाईमेव भूयो भूयः प्रमोलितनयन एव पठति । गोपी। यालोक्य । अहो प्रेमानन्दाखादमहिमा देवस्य । अनुभूतस्य नुत्यकालीनभगवत्कृष्णसाक्षात्कारानन्दस्य ब्रमानन्दतोऽपि चमत्कारकारणत्वं चर्वणयास्वादयति। अथेति उच्चावचशास्त्रसकलप्रतिपाद्यावबोधपरिसमाप्तौ अत इति ब्रह्मानन्दादपि चमत्कारकारकत्वात् । हंसाः सारासार विवेचकचतुराः पादाम्बुजं श्रयेरन्। कुतः आनन्ददुघमिति खानुभूतानन्दमाहात्म्यसूचनमिदम्। परितोऽवलोक्य । अहो इत एव सर्वं परमभागवताः। तथा हि
2c
For Private And Personal Use Only