________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमात श्रीकृष्णचैतन्याद्वैताद्यभिनयः । श्रीचै। कथमाचार्योऽसि एहि प्रणमाद्वैतम् । गोपी। तथा करोति। अहै। धालिय । जानामि भवन्तं विशारदस्य जामातारम्। श्रीचे। स्वत एव महत्तरोऽयम्।
आचा। वाणीनाथेन सह युक्त्या सर्वेषामवस्थानं कल्प्यताम्। गोपी। यथाऽऽज्ञापयति भगवान्। इति निष्कान्तः । श्रीचै। वासुदेव यद्यपि मुकुन्दो मे प्राकसहचरस्तथाऽपि त्वमद्य दृष्टोऽपि अतिप्राकप्रियतमोऽसि ।
वासु। सदैन्यम् । भगवन् काहं वराको मुकुन्दस्तु तवानुग्रहीत एव चिरं तेन ईश्वरानुग्रहकालस्य । जन्मतया कनी यानप्यसौ मम ज्यायानेव।
श्रीचै। शिवानन्द त्वमप्यतीव मय्यनरतोऽसीति जानामि। शिवा। निमज्जतोऽनन्तभवार्णवान्त
श्चिराय मे कूलमिवासि लब्धः । त्वयाऽपि लब्धं भगवन्निदानी
मनुत्तमं पात्रमिदं दयायाः ॥ इति भूमौ निपतति । श्रीचै। राघव त्वमतिप्रेमपात्रमसि मे। राघ। अनुत्तरेणैव प्रत्युत्तरयन् प्रणिपतति । श्रीचै। स्वरूप यद्यप्ययं शङ्करा दामोदरानुजस्तथाऽपि मे। इत्याक्ते दामोदरं निरीक्षते ।
For Private And Personal Use Only