SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८६ www. kobatirth.org श्रीचै। चैतन्यचन्द्रोदयस्य अद्वै । अदृष्टपूर्व्वान् परिचाययति । श्रीचै। अदृष्टपूर्व्वानपि तान् स्वयमेव नामग्राहं सम्बोधयति । गोपी । अहो अतिचित्रम् । क्षेमं ते राघव नन शिवं वासुदेव प्रियं ते हो नारायण ननु शिवानन्द कल्याणमास्ते । भव्यं हे शङ्कर नु कमलानन्दकाशीश्वरै। वां भद्रं श्रीकान्त तव कुशलं स्वस्ति नारायणस्य ॥ अपि च । इति प्रियोक्त्या मधुरार्द्रया शनैरदृष्टपूर्व्वानपि दृष्टवत् प्रभुः । सम्बोधयत्येष किमोशताऽथवा प्रेमैव वा प्राक्तन एष सर्व्ववित् ॥ श्रद्यायं मे समजनि महानुत्सवः श्वः परश्वा वान्यो नीलाचलशशधरस्येोत्सवो गुण्डिचाख्यः । तुल्यौ यद्यप्यद्दह हृदयानन्द निस्यन्द हेतू यत्राद्वैतप्रकटनमसावुत्सवो मे प्रमोदो ॥ इति प्रत्येकमद्वैतादीन् भगवज्जगन्नाथप्रसादमालाचन्दनाभ्यां भूषयित्वा श्रीहस्तेन प्रसादानं किञ्चित् किञ्चिद्ददाति । सार्व । न मयेदानीमुपसर्त्तव्यम् । मामवलोक्य रसान्तरं भवितुमर्हति । गतप्रायमेवैतद्दिनद्वयं यात्रायाः सामग्रोसम - वधानाय राज्ञा नियुक्तोऽस्मि । तदधुना तचैव गच्छामि । आचार्य्य त्वमत्रैव तिष्ठ । इति निष्कान्तः । गोपी। उपसृत्य। जयति जयति महाप्रभुः । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy