________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमावे राजागोपीनाथाद्यभिनयः। १९३ पारोक्षिकी ह्याज्ञा इयन्तु साक्षात्कारिणो तत्रापि भगवता स्वहस्तेन प्रसादीक्रियमाणं जगन्नाथप्रसादानम्। अत्र का विप्रतिपत्तिः। तथा च
यदा यस्यानगृह्णाति भगवानात्मभावितः।
स जहाति मतिं लोके वेदे च परिनिष्ठिताम्॥ इति। अपि च। तत्कर्म हरितोषं यदित्युक्तेरस्य तोष एवैषामुहेश्यो न तीर्थयात्रा फलम् ।
राजा। एवमेव । किन्तु कथय रथयात्रा कदेति । त्वदुपदिष्टो मन्त्र एव मे हदि लग्नः। तदत्र निमिषमात्रोऽपि कालः कल्पायत इव मे। सार्व। परश्वः । राजा। कः कोऽत्र । भोः आहूयतां परीक्षामहापात्रं काशीमिश्रश्च।
प्रविश्य कश्चित्प्रणम्य । देव यथाऽऽज्ञापयसि। इति निष्कम्य तावादाय पुनः प्रविश्य च । देव सम्प्राप्तावेतो।
राजा। महापात्र जगन्नाथदेवस्य यात्राविधौ भगवच्चैतन्यहृदयज्ञेनामुना काशीमिश्रेण यद्यदादिश्यते तदेव मदादेश इति ज्ञात्वा व्यवहर्त्तव्यम्। महापा। यथाऽऽज्ञापयति देवः।।
राजा। मिश्र त्वयाऽपि भगवच्चैतन्यचित्तानुवृत्तिरहरहरेव काऱ्या। मिश्रः । मदोयमभीष्टमेवैतत् ।
2B
For Private And Personal Use Only