________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
MAN
HIH
चैतन्यचन्द्रोदयस्य इमे श्रीवासस्य सहोदराः । अयं गङ्गादासः । अयं नृसिंहाचार्य्यः । इमे चान्ये नवदीपवासिनः। एते ममाप्यपूर्वाः । आज्ञा चेद्भवति तदा ज्ञात्वाऽऽगच्छामि। राजा। तथैव क्रियताम्। गोपी। यथारुचितं देवाय । इति सत्वरं परिक्रम्य नेपथ्य स्थो भूत्वा त्वरितं मनः प्रविश्य च। सार्वभौम एष आचार्य्यपुरन्दरः। एष हरिभट्टः । एष राघकः । एष नारायणः । एष कमलानन्दः । एष काशीश्वरः । एष वासुदेवो मुकुन्दस्य ज्यायान् । अयं शिवानन्दः। एष च नारायणः । एष बल्लभः । एष श्रीकान्तः । किं बहुना सर्व एवामी श्रीचैतन्यपार्षदाः नैकोऽप्यत्र तैर्थिकः ।
राजा । कथममी जगन्नाथालयं पृष्ठतः कृत्वा अग्रतश्चैतन्यकृष्णालयमेव प्रविशन्ति। सार्व। एष एव नैसर्गिकस्य प्रेम्ण महिमा।
राजा। पुनरन्यतोऽवलोक्य । अये कथमयं वाणीनाथो रामानन्दानुजः सत्वरः प्रचुरतरैर्महाप्रसादानादिभिरुपसरति।
सार्च। हृदयज्ञोऽयं श्रीचैतन्यभगवतः तदनुक्त एव महाप्रसादैरुपचरितुमेतानुपसर्पति।
राजा । भट्टाचार्य। _ "मुण्डनच्चोपवासश्च सर्वतीर्थेष्वयं विधिरिति' वचनमल्लद्ध्यामी अद्य महाप्रसादमरोकरिष्यन्ति । सार्व। भट्टारक स खल्वन्यः पन्थाः । सा तु भगवतः
For Private And Personal Use Only