SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घटमाझे राजासार्वभौमाद्यभिनयः। १८१ प्रविश्यापटीक्षेपण। आचार्यः। एषोऽहमस्मि तदाज्ञापयतु देवः किं विधेयमिति। राजा। सार्वभौम आदिश। सार्व। भवताऽमी सर्व्व परिचीयन्ते तदस्मानपि प्रत्येक परिचाय्यन्ताम्। गोपी। वाढम। इत्युपविशति । नेपथ्ये हरिसङ्कीर्तनध्वनिः । सार्व। बाकर्ण्य । सङ्कीर्तनध्वनिरयं पुरतो विभक्तशब्दार्थ एव समभूछवणप्रमोदी। शब्दग्रहेण तदनन्तरमन्यरूपो लब्धार्थ एव पुनरन्यविधो बभूव॥ राजा। निरूप्य। ईदृशं कीर्तनकौशलं वापि न दृष्टम् । सार्व। इयमियं भगवच्चैतन्यसृष्टिः । राजा। आचार्य यस्मै भगवन्मालामयमर्पितवानयं कः। गोपी। कथयामि प्रत्येकम्। अयमदतः । अयं नित्यानन्दः। सार्व। अयं परिचीयते। राजा। कथमसौ कतिचिज्जनैः सह पृथगायाति । सार्व। सातत्वादन्यसङ्गं नेहते। गोपी। अयं श्रीवासः । अयमयं वक्रेश्वरः । अयमाचार्यरत्नः। अयमयं विद्यानिधिः। साव । बाल्ये मया दृष्टावेतो। गोपी। अयं हरिदासः । अयमयं गदाधरः । अयं मुरारिः। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy