________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य राजा। भट्टाचार्य निवेदितं भवता भगवते श्रीकृष्णचैतन्याय। साव। अथ किम्। राजा। किमाज्ञाप्तम्। सार्व्व। किं कथयामि।
राजा। सविधादम् । तदैव मया ज्ञातमस्ति यद्भवता स्वयमपेत्य सहर्षोल्लासं न कथितम् । हा धिक् ।
अदर्शनीयानपि नीचजातीन् स वीक्षते चारु तथाऽपि नो माम् । मदेकवज कृपयिष्यतीति
निर्णय किं सोऽवततार देवः ।। क्षणं विचिन्त्य । अये श्रयताम् ।
ज्ञातैव तस्य किल सत्यगिरः प्रतिज्ञा सम्प्रत्यहा क्रियत एष मयाऽपि पक्षः। प्राणांस्त्यजामि किम वा किम वा करोमि
तत्पादपङ्कजयुगं नयनाध्वनीनम् ।। इति सवाष्पस्तिष्ठति ।
सार्व। खगतम् । अतिभूमिं गतोऽयमस्यानुरागपरभागः किं करोमि।
पुनर्गत्वा ब्रूयामहह तदिदं नैव घटते स निवन्धस्तस्य द्रढिमगरिमद्राधिमधनः । सुदुवारोऽप्यस्य प्रथितपरिमप्रौढिमवहो
For Private And Personal Use Only