SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८७ यसमाके राजासार्वभौमाद्यभिनयः । भूयोऽयं यतिधभस्य गौरमूर्तेः प्रत्यक्षीकरणकृते प्रयत्नकृत् स्यात् ॥ गोपी। अहो अयं भट्टाचार्य्यस्यालापः श्रूयते तन्महीपालेन गजपतिना समागतमिव। भवत्यपि अभ्याऽयं रथमहोत्सवस्तदहं श्रीजगन्नाथमालोक्य यावदागच्छामि। इनि निष्कान्तः। वतः प्रविशति भट्टाचार्यः। भट्टाचार्य्यः। आगमनसमकालमेव यदहमातोऽस्मि गजपतिना तेनोनीतं श्रीकृष्णचैतन्यदर्शनार्थमयमुत्कण्ठते । इति परिक्रम्यावलोक्य च । अहो अयमयमवनीपतिः। यावदपसमि। इत्युपसर्पति। ततः प्रविशत्यासनस्थो राजा महायात्राणि च । राजा। सोत्कण्ठमात्मगतम् । अभून्न चेष्टा मम राज्यचेष्टा सुखस्य भोगश्च बभूव रोगः। अतःपरं चेत् स न वीक्षते मां न धारयिष्ये वत जीवनच्च। सार्व। अन्तः मचिन्तित इव लक्ष्यते महाराजः । यदपनतमपि मां न गोचरीकरोति तत् स्वयमेव परिचाये। जयति जयति महाराजः। राजा। अवधानं नाटयित्वा। कथम्। भट्टाचार्योऽसि। एहि एहि। इति प्रणमति । सार्व। चाशीभिरभिवन्द्योपविशति । 22 For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy