________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपमाके श्रीकृष्णचैतन्यसार्वभौमाघभिनयः। १८३ चाम्बरत्वादि न वस्तु साधनम्। चलनिरुवा जुनैव वर्मना
सुखेन गम्यस्य समाप्यतेऽवधिः ।। किमते नेति चर्मा जिहासति। श्रीचै। दामोदरं निरीक्षते। दामोदरः। इङ्गितं बुद्धा सत्वरं वहिवासः प्रयच्छति। ब्रह्मा। परिदधाति । श्रीचै। उपसृत्य प्रणमति। ब्रह्मा। ससाध्वसादरम्। स्वामिन् लोकशिक्षार्थं यद्यपि भवतामिदमुचितमेव तथाऽपि नोऽतिभयजनकमेतत् तदपरं नैतदनष्ठेयम्। पश्य पश्य।
नीलाचलस्य महिमा न हि मादृशेन शक्यो निरूपयितुमेवमलौकिकत्वात् । एते चरस्थिरतया प्रतिभासमाने
हे ब्रह्मणी यदिह सम्प्रति गौरनोले ॥ श्रीचै । सम्प्रति शब्दस्य वर्तमानत्वादचिरागते भवत्येव गौरब्रह्मता नामैकदेशवर्त्तिब्रह्मशब्दत्वाच्च ।
ब्रह्मा। व्याप्यव्यापकभावत्वेनैव तदनुमीयते । व्याप्यत्वच्च चर्मत्यागेनैव ज्ञायताम्। सार्व्व। सम्यगाजः श्रीपादाः । ब्रह्मा । सार्वभौम पश्य पश्य ।
सुवर्णवर्णा हेमाङ्गो वराङ्गश्चन्दनाङ्गदी।
For Private And Personal Use Only