________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अयमावे श्रीकृयाचैतन्यसार्वभौमाद्यभिनयः। १८१ ततः प्रविशति गोविन्दनामा कश्चित् ।
गोविन्दः। खगतम्। प्रहितोऽस्मीश्वरपा महाप्रभोः सविध एव याहीति । उपसन्नं तदिदमथो न वेद्मि निजभाग्यमहिमानम्। इत्युपसृत्य प्रणम्यचाञ्जलिं बद्ध्वा । स्वामिन् ।
दृष्टं मया प्रथममस्य यदेवरूपं तेनैव निर्वतिरहो मम नान्यवेषम् । पश्यामि तं त्वमुपयाहि तमित्यहं ते
सम्प्रेषितश्चरणसीम्नि पुरीश्वरेण ॥ श्रीचै। अस्ति तथैव मयि तेषामखण्डमेव वात्सल्यम्। सार्व। त्वं तस्य परिचारकः । गोवि। अथ किम्। सार्व। स्वामिन् कथमसौ ब्राह्मणेतरं परिचारकत्वेनानुगृहीतवान्। श्रीचै। भट्टाचार्य मैवं वादी।
हरेः स्वतन्त्रस्य कृपाऽपि तदइत्ते न सा जातिकुलाद्यपेक्षाम् । सुयोधनस्यान्नमपोह्य हर्षा
ज्जयाह देवो विदुरानमेव ॥ सार्व। एवमेव। श्रीचै। भवतु यद्यपि पूज्यानां परिचारकेण स्वपरिचर्या कारयितुं न यज्यते तथाऽपि तदाज्ञया तथैव कर्त्तव्यम् । इति तमनुग्रहाति। प्रविश्य सत्वरम्
For Private And Personal Use Only