________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमाङ्के श्रीकृष्णचैतन्यसार्वभौमाद्यभिनयः। १७६ उपसृत्य जगदानन्दः। स्वामिन् इत इतः । इति विश्रामयति । सार्व। भोः स्वामिन्नेदमतिचित्रम् ।
ये केऽपि याः काश्चन सप्रवाहा नदाश्च नद्यश्च भवन्ति भूमा। कस्यापि रत्नाकरमन्तरेण
कुत्रापि नास्था न च सन्निवेशः ॥ नेपथ्ये। अहो रसकलावतो भगवतो रसाचार्य्यक
ग्रहोतुमिव मूर्ततां व्यधित भिक्षवेधं वपुः । यदेतदवनीतले सकल रव दामोदर
खरूपमिति भावते तदप्रथक्तया प्रेमतः ॥ सार्व। अहो लोकानामत्र भगवति नैसर्गिकी रतिः । यदिदं परोक्षेऽपि सर्वे भगवत्तामेवास्य गायन्ति।।
श्रोचै । श्रुतिमभिनीय। अहो दामोदरस्वरूपमिति नामाकर्णितं कच्चिदयमपि समागमिष्यतोव लक्ष्यते ।
सार्व। स्वामिन् प्रायशो भवदवतारे केचित् पूर्व केचित् पश्चाच्च भवदीया एव सर्व अक्तेरुः। समये सवरेव मिलितैभवितव्यम् । अत एव सप्रवाहा इत्युक्तम् । ततः प्रविशति दामोदरखरूपः । दामोदर स्वरूपः । याकाशे लक्ष्यं बद्ध्वा । हेलोद्धलितखेदया विशदया प्रोन्मीलदामोदया शाम्यच्छास्त्रविवादया रसदया चित्तापितोन्मादया। शश्वद्भक्तिविनोदया समदयामाधुर्य्यमर्यादया
z2
For Private And Personal Use Only