________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य जगन्नाथद्वारादपि बहुलकोलाहलकृता समूहो लोकानामिह सरति नैवापसरति । अतो मन्ये धन्ये धरणि तव पुण्येन मिलितः स एवायं देवः कनकरुचिरत्रैव भविता॥ तदहमपसमि । इत्युपसर्पति । ततः प्रविशति परिजनैः साई श्रीजगन्नाथदर्शनानन्द-निस्पन्दः श्रीकृष्णाचैतन्यः ।
श्रीकृष्ण । स्मृतिमभिनीय। अहो परमानन्दपुरोश्वरः साम्प्रतमागमिष्यतीव लक्ष्यते। यतः ।
भगवदर्शनसुखमनसुखान्तरं किमपि साम्प्रतं भावि। आसन्नशर्माशंसी प्रसाद आकस्मिको मनसः ।।
इति सोत्कण्ठं तिष्ठति । परी। अयतोऽवलोक्य । अहो अयममा।
जयति कलितनीलशैलचन्द्रेक्षणरसचर्वणरङ्गनिस्तरङ्गः। कनकमणिशिलाविलासवक्षः
स्थलगलदसमजस्ररोमहर्षः ॥ श्रीचै । अग्रतोऽवलोक्य । अयमेवासौ यदिदमाकस्मिकमागमनमिहतस्य । इत्युत्थाय प्रणम्य । स्वामिन् पुरीश्वरोऽसि ।
पुरी। ससम्ममम् । भगवन् त्वदर्शनार्थमेवायमहमुत्कण्ठितो वाराणसीत आगच्छन्नस्मि । श्रीचै। अनुगृहोतोऽस्मि ।
For Private And Personal Use Only