________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१७४
चैतन्यचन्द्रोदयस्य
श्रीकृष्ण । कियन्त एव वैष्णवा दृष्टास्तेऽपि नारायणोपासका एव । अपरे तत्त्ववादिनस्ते तथाविधा एव । निरवद्यं न भवति तेषां मतम् । अपरे तु शैवा एव बहवः । पाषण्डास्तु महाप्रबलभूयांस एव। किन्तु भट्टाचार्य रामानन्दमतमेव मे रुचितम् । सार्व्व । भवन्मत एव प्रविष्टोऽसौ न तस्य मतकर्तृता । खामिन्नतः परमस्माकमप्येतदेव मतं बहुमतं सर्व्वशास्त्रप्रतिपाद्यचैतदिति ।
गोपीनाथाचार्य्यः । भट्टाचार्य भगवतोऽवस्थानस्थानं चिन्तितमस्ति ।
भट्टा । अपवार्य्य राज्ञैव चिन्तितम् ।
: गोपी । जनान्तिकम् । कीदृशं तत् । भट्टा । काशी मिश्रस्यालयः ।
Acharya Shri Kailassagarsuri Gyanmandir
गोपी । साधु साधु सिंहद्वारनिकटवर्त्ती भवति । यतः सकाशात् सुखेनैव जगन्नाथदर्शनं भविष्यति । इति समुद्रकूलात् पुरुषोत्तमग्रामं विशन्ति ।
ततः प्रविशन्ति भगवज्जगन्नाथ प्रसादमालापाण्यो जगन्नाथदेवपपालकाः काशीमिश्रः परीक्षामहापात्रञ्च ।
सर्व्व । श्रयमयं श्रीकृष्णचैतन्यः स्वामी । इति सोत्कण्ठमुपसर्पन्ति ।
सर्व्व । भगवन एते भगवतः पशुपालाः । एष काशीमिश्र - नामा । एष सर्व्वाधिकारी प्राड्विवाको भगवतः । काशीमिश्रपरीक्षामचापात्रे । उपसृत्य दण्डवन्निपततः ।
For Private And Personal Use Only