SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ चैतन्यचन्द्रोदयस्य निर्मलहृदयत्वेन यथार्थस्फूतिरेव भवति। मन्न । एवमेवारमत्मदसि विचारितमस्ति । एवमनन्तैव विचित्रा कथा तैस्तैगूढपुरुषैः कथिता कति कथनीया भवति । सार्व। एवमेतत्। राजा। सोत्कण्ठम् । हन्त कदा भगवान् वीक्षितव्यः । नेपथ्ये । हन्त वीक्षणसमयोऽयं तदलं विलम्बेन । राजा। सहर्घम् । भट्टाचार्य यथाऽयं यथा प्रस्तावमेव जगनाथदर्शनसमयं प्रस्तौति तथा मन्ये। श्रीकृष्णचैतन्योऽप्यागतप्रायः। भट्टा। भट्टारक एवमेव। राजा। भट्टाचार्य अयं पुरुषोत्तमः पुरुषोत्तमक्षेत्रस्य वीजभूतं किमपि भविष्यति । अस्मात् किल बहव एवानन्दाहरा जायेरन्। नीलाचलचन्द्रस्य सेवा सौभाग्यविशेषोऽपि भविष्यति। . साव। सत्यमेतत् पुण्यात्मानो हि नरदेवा देवांशभूता एव तेन भवतां मनसि यदुन्मीलति तदेव सत्यम्। नेपथ्ये इन्त भाः सत्यं सत्यम्। - राजा। सहर्षम्। अद्यापि तथैव वाक् शकुनम् । तत्पश्य ज्ञायतां कोऽयम्। भट्टा । तैर्थिकस्तैर्थिकान्तरेण सह जगन्नाथदर्शनोत्कण्ठां प्रपञ्चयति । प्रविश्य दौवारिकः। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy