________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमा सार्वभौमराजाद्यभिनयः।
११ रिति । श्रीकृष्णचैतन्यदेवस्य कृष्णात्मकत्वात्तदर्शने कृष्णस्फूतिरेव स्फुरतीति रहस्यम्। अपि च। सहस्रनामभिस्तुल्यं रामनाम वरानने।
सहस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत्फलम्॥
एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति । इति रामनामतः कृष्णनाम श्रेयः। · मल्ल । सत्यमेतत् अस्माभिरपि भूपालस्य सदसोदमेव निरणायि। एवं दक्षिणस्यां दिशि ये ये विष्णुभक्तास्ते किल रघुनाथभक्तिद्दारैव वनवासे पञ्चवट्यादिषु रघुनाथचरितचारुस्थलदर्शनात्तत्रैवानरक्तिस्तेषां स्वाभाविकी सम्प्रति यतीन्द्रमेनमालोक्य कृष्णपक्षपाता एव बभूवुः। एवं कचन स्थले कमपि ब्राह्मणमतिमूर्खतया शब्दार्थाववोधविरहेण शुद्धिवजितं भगवद्गीतां पठन्तं प्रायशः सर्वेरेव विहस्थमानमथ च यावत्पाठं तावदेव पुलकाश्रुविवशं विलोक्य अहो अयमुत्तमोऽधिकारीति भगवान् तमवादीत् । ब्रह्मन् यत् पद्यते तस्य कोऽर्थ इति स प्रत्यूचे। स्वामिनाहमर्थं किमपि वेद्मि अपितु पार्थरथस्थं तोत्रपाणिं तमालश्यामं श्रीकृष्णं यावत् पठामि तावदेव विलोकयामीति। तदा भगवतोक्तम्। उत्तमोऽधिकारी भवान् गीतापाठस्येति तमालिलिङ्ग। तदनु स खलु गीतापाठजादानन्दादपि प्रचुरतरमानन्दमासाद्य स्वामिन् स एव त्वमिति भूमौ निपत्य प्रणमनतिशयविहलो बभूव । सार्व्व। उचितमेवास्य तथा ज्ञानं निरन्तरभगवत्स्फूर्ति
Y
2
For Private And Personal Use Only