SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य साळ। अहो मोहस्य महिमैषां ।। यन्मायया मूढधियो भ्रमन्ति भुवनेश्वराः । तमपीह भ्रमयितुं क्षुद्राणामयमुद्यमः ॥ मन्म। अन्येद्युरन्यत्र कुत्रापि ब्राह्मणगृहे यदृच्छयोपगतस्तं ब्राह्मणं केवलं रामरामेति नाममात्रजपपरायणं दृष्ट्वा गतवान्। प्रत्यागमनसमये पुनस्तमालोकयितुं तत्रैव समुत्तोमः । तमेव कृष्ण कृष्ण कृष्णेत्येवं जपन्तं दृष्ट्वा पृष्टवान्। ब्राह्मण कथं गमनसमये राम राम रामेत्येवं जपन् भवानानोकि । अधुना कृष्ण कृष्ण कृष्णेत्येव जपन्नालोक्यते तत्कथयास्य तत्त्वमिति। तदा स ऊचे। भगवन् तवैव प्रभावोऽयं यतः शैशवावधि रामनाममात्रजपपरायणोऽहं भवदर्शनमात्रेण कृष्ण कृष्ण कृष्णेत्येव मे वदनानिःसरति । बलादप्यमेतन्निवर्तयितुं न शक्नोमीति तवैव दर्शनदोषोऽयं न ममेति। राजा । भट्टाचार्य कोऽत्र सन्दर्भः। भट्टा । महाराज यद्यपि समानार्थमुभयमेव। रमन्ते योगिनोऽनन्ते सत्यानन्दचिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ यथा। कृषि वाचकः शब्दो णश्च निर्वृतिवाचकः। तयोरक्यं परं ब्रह्म कृष्ण इत्यभिधीयते॥ इति परब्रह्मार्थत्वे समानमेव तथाऽपि रतिमतां राम इत्यक्ते रघुनाथस्फूर्तिः। कृष्ण इत्युक्ते व्रजराजकुमारस्फूर्ति For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy