SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमाङ्क सार्वभौमराजाद्यभिनयः । लक्ष्म्यैव प्रकटीकृतं महिमानमनुभूय विनोपदेशेनापि कर्तृवं स्याम इति तत्कालसमुदित्वरवासनाविशेषेण जातपुलकासवः सर्व एव स्वस्वमतप्रच्यावेन तत्पथप्रविष्टा बभूवुः। तस्य परम्पराश्रवणेन लब्धपरमानन्दोऽस्मन्नरलोकपालस्तविशेषचरितमवगन्तुं गूढवेशेन ब्राह्मणान् प्रहित्य यावत् सेतुबन्धं ततः प्रत्यागमनावधि च तस्यालौकिकचमत्कारं तत्तन्मुखादनुभवन् भव-दव-दहन-ज्वालामेव विस्मृतवान्। राजा। अमात्य धन्योऽसौ ययादीयो महीपालः । सार्व। किं किं श्रुतं किञ्चित् कथ्यताम्। राजा। अमात्य कथ्यताम्। मल्न। एकस्मिन्नहनि निजसुखावेशेन विगलहिलोचनजलसकल-धौत-कलधौतशरीरं रोमाच्चसच्चयेन मुकुलाऽऽकुलायमान-कदम्बभूरुहाकरं भगवन्नामसङ्कीर्तन-सगद्गदखरं खरंहसा स्वानन्दवैवश्येन वर्मपरिचयाभावतोऽपि यथावर्तीव चलन्तं भगवन्तमालोक्य पाषण्डिनो वैष्णवोऽयं भवति भिक्षुर्भगवत्-प्रसादनाम्नैवेदं ग्रहीष्यति तदेतदन्नमेनमाशयाम इति श्वभोजनयोग्यमचितरान्नं स्थाल्या निधाय पुरो गत्वा स्वामिन् भगवत्प्रसादमिमं गृहाणेति श्रावयित्वा समूचिरे चिरेण । भगवान्। सर्वज्ञोऽपि भगवत्प्रसादनाम्ना तत्त्यागमसहमान एव पाणी गृहीत्वा तत्महितमेव पाणिमुगम्य चलितवान्। समनन्तरमेव महता केनापि विहंगेन चञ्चपुटे कृत्वा तदन्नं भगवत्करतलतः समादाय समुड्डीनम् । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy