________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य सदैव धीरा विनयकभूषणा
लक्ष्मीः प्रकृत्यैव जनैः समीयते ॥ राजा। इदमासनम्। मल्ल । यथाऽऽज्ञमपविशामि। इत्युपविशति । राजा। अपि कुशलं कर्णाटपतेः । मल्ल । यस्य भवद्विधाः सुहृदस्तस्य सततमेव तत्। किन्त साम्प्रतमधिकमपि।
राजा। कीदृशं तत्। मल्ल । महाराज एतस्माज्जनपदतः सतीर्थयात्राव्याजेन द्रुतकनकद्युतियतोन्द्रः कोऽप्येको यदवधि हन्त दक्षिणाशा सम्प्राप्तस्तदवधि सेोऽपि निवृतात्मा। सार्व। सेोत्कण्ठम् । भट्टाः कथयन्तु कथयन्तु। राजा। कथमिव । मल्ल । यथोत्तरमेव दक्षिणस्यां दिशि कियन्तः कर्मनिष्ठाः कतिचिदेव ज्ञाननिष्ठा विरला एव सात्वताः प्रचुरतराः पाशुपताः प्रचुरतमाः पाण्डिनः। तेन तेषामन्योन्यवादविसंठुलानामुच्चावचनिर्वचनचातुर्यधुर्याणां स्वस्वमताचार्यवाणां प्रसङ्गेन प्रायशो बहुलोइंग एव नो महीपालः ।
राजा । ततः।
मल्ल । तत आकस्मिकप्रवेशमात्रेणेव तस्य यतिपतेर्दिशि विदिशि सानन्दचमत्कारं समूढेषु आबालवृद्धतरुणेषु लोकेष दिदृक्षयोपनतेषु पण्डितमण्डलेष्वपि परमनयनसुभगया वपु
For Private And Personal Use Only