SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्थ भट्टा। अहो आगच्छतागच्छत विप्राः । उपत्य राजानमाशीर्भिरभ्यर्थ सार्वभौमं प्रणमन्ति । राजा। उपविश्यामलं कथयत । सब्ब उपविशन्ति । भट्टा। एकतम एव कथयतु। एकः । इतस्तावदालाननाथदेवमवलोक्य स्तुत्वा महामत्तकरीन्द्रवदनकुश-कुशलगतिकुशलस्वरया रयातिशयैरप्यस्माभिरनुगन्तुं दुःशकः शकलमिव सुमेरोरौदीच्येन प्रबलतरमरुता विभज्य चालितं निरवधि भगवन्नामसकोर्त्तनविकस्वर-वरपरभागाधरीकृत-धाराधर-धोरणि-धीरध्वनिरध्वनि वतैकमनोऽभिवीक्ष्यमाणो जनैर्लघीयसा कालेनैव कूर्मक्षेत्रमुत्तीर्मवान्। सार्व। एतदभ्यन्तरे भिक्षा नाभूत्। विप्रः । नाभूदेव। . भट्टा। भवद्भिः किं कृतम्। विनः । अस्माभिस्तु यथालाभं किञ्चिदशित्वा दृश्यमान एवायमनुगम्यते। ततस्तत्रैव कूर्माक्षेत्रे कूर्मदेवं प्रणम्य स्तुत्वा कूर्मनाम्नो दिजवरस्य गृहमुत्तीर्णवान्। समनन्तरं तेनैव निमन्त्रितः कृतभिक्षश्च यदन्यत् कृतवान् तदप्यद्भुतम्। भट्टा । किं तत्। विप्रः। तत्रैव कश्चित् वासुदेवनामा विप्रो गलत्कुष्ठः कुष्ठकृमिनिकर-करम्बित-वहुल-रुधिर-वसापूयक्लिन्नसाङ्ग कदाचित् पनीपत्यमानान् कृमीनुत्थाप्य तत्रैव निवेशयन्ननुदियो For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy