________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमा सार्वभौमराजाद्यभिनयः । भगवन्मग्रमना इव केनाप्यकथितोऽपि स्वयमेव भगवताऽप्रापि। अनन्तरमविलम्बेनैव चिरकाललब्धपरमसुदिव गाढतरमायताभ्यां भुजाभ्यामयं तथाविध एव पर्य्यरम्भि समनन्तरं तेन विग्रहेण ।
काहं दरिद्रः पापीयान् क कृष्णः श्रीनिकेतनः । ब्रह्मबन्धुरितिस्माहं बाहुभ्यां परिरम्भितः॥ इति पठन्नेव सद्योऽतिद्योतिप्रकृतसुन्दराङ्गः समजनि । तदनु पुनस्तेनोक्तम्।
भगवन् कथमयमोदृशो मे निग्रहः कृतः। तथाविधेन मया आमयाविना विना दुःखं निरुद्देगेन स्थितं सम्पतिसम्प्रतिपद्यमान-मानतया सा एव मनोवृत्तय उत्तिष्ठेयुः। भगवतोतम्। ब्रह्मनपुनस्ते भगवदनुस्मरणमन्तरेण मनसो वाह्यव्यापारा भविष्यन्ति तदलमुद्देगेनेति ।
राजा। भट्टाचार्य सत्यमेवायमोश्वरः। अन्यथा ईदृक्करुणा जीवस्य न घटते। कुष्ठहारित्वन्तु योगीन्द्रस्यापि सङ्गच्छते। साव । ततस्ततः । विप्रः। ततश्च नृसिंहक्षेत्रमुपगम्यागम्यानुभावो भगवन्तं नृसिंहं दृष्ट्वा स्तुत्वा प्रणम्य प्रदक्षिणीकृत्य प्रतस्थे।
काञ्चनाचलमरीचिवीचिभिगौरयन् किमपि दक्षिण दिशम् । दर्शनेन करुणातरङ्गिणा द्रावयन् जनमनांसि सर्वतः ॥
For Private And Personal Use Only