________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५
चैतन्यचन्द्रोदयस्थ सा साऽभिधत्ते सविशेषमेव । विचारयोगे सति हन्त तासां
प्रायो बलीयः सविशेषमेव ।। तथा हि । “आनन्दायेव खल्विमानि भूतानि जायन्ते आनन्देनैव जातानि जीवन्ति आनन्दं प्रयन्ति अभिसंविशन्ति" इत्यादिकया श्रुत्या अपादानकरणकमादिकारकत्वेन विशेषवत्त्वापत्तेः। एवं “यतो वा इमानिभूतानिजायन्ते”इत्यादिकया“स ऐक्ष्यत" इत्यादौसोऽकामयत”इत्यादौ च ईक्षणं प-- लोचनं कामः सङ्कल्पः। इत्याभ्यामपि विशेषवत्वान्न तावन्निर्विशेषत्वमुपपन्नं भवति। आयाते च विशेष रूपस्यापि विशेषादायातत्वं न तु तद्रपं प्राकृतं ज्योतिश्चरणाभिधानादिति। ज्योतिषो ऽप्राकृतत्वं यथा साध्यते तथा तस्य रूपस्यापीति । केवल निविशेषत्वे ट्रन्यवादावसरः प्रसज्येत। तेन ब्रह्मशब्दो मुख्यएव मख्यत्वेन भगवान् ब्रहोत्यवशिष्टम्। तथा च "ब्रह्मेति परमात्मेति भगवानिति शब्द्यते”। स्वपक्षरक्षणग्रक्ष्यहिलास्तु मुख्यार्थी भावाभावेऽपि लक्षणया निरूपयितुमशक्यमपि निर्विशेषत्वं ये प्रतिपादयन्ति तेषां दुराग्रहमात्रम् । वस्तुतस्तु ।
आनन्दो दिविधः प्रोक्तो मूतीमूर्त्तप्रभेदतः। अमूर्तस्याश्रयो मूर्ती मूर्तीनन्दोऽच्युतो मतः॥ अमूर्तः परमात्मा च ज्ञानरूपश्च निर्गुणः । खस्वरूपश्च कूटस्थो ब्रह्म चेति सतां मतम्॥ अमूर्त्तमर्तयोर्भेदो नास्ति तत्त्वविचारतः ।
For Private And Personal Use Only