________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
चैतन्यचन्द्रोदयस्य
गोपी। उप । जयति जयति परमकारुणिकः । जगदा । अहो कथमयमश्रुतपूर्व्वस्ते व्याहारविलासः । गोपी । स खलु भवतामेव वेद्यः । इत्युपसृत्य प्रणमति ।
नेपथ्ये । खामिन् नायं पन्थाः श्रीजगन्नाथालये पसर्पणाय ।
भगवान्। व्याकर्ण्य व्याकर्ण्य । ज्ञायतामाचार्य्यं किमेतत् । गोपी । नेपथ्याभिमुखमवलोक्य । ज्ञातं ज्ञातं श्रयमयं भट्टाचार्य्यः । श्रीजगन्नाथमदृट्रैव भगवञ्च रणेोपसर्पणार्थमागच्छति ।
1
दामो। पुरैव ज्ञानमस्ति । इति सर्व्वे तन्मुखमीक्षमाणास्तिष्ठन्ति । ततः प्रविशति विस्मयेोत्फुल्लमनाः सार्व्वभौमः ।
सार्व्व । स्वगतम्। अहो अवितथमेवाच गोपीनाथाचार्य्यः 1 अस्माकमपि चेतेो यदीदृशमजनि तदयमीश्वर एव । इति सोत्कण्ठं परिक्रम्य । अहो इदमस्मन्मातृष्वसुः पुरं तद्यावत् प्रविशामि 1 इति प्रवेशं नाटयति ।
आचा । उत्थायाभिगच्छति ।
सार्व्व । अग्रेऽवलोक्य | आचार्य किं कुर्व्वन्ति स्वामिनः ।
।
आचा । इत इत आगच्छन्तु भवन्तः ।
सार्व्व । उपसृत्य भगवन्तं दण्डवत्प्रणम्याञ्जलिं बद्ध्वा ।
नानालीलारसवशतया कुर्व्वतो लोकलीला साक्षात्कारेऽपि च भगवतो नैव तत्तत्त्वबोधः । ज्ञातुं शक्नोत्यहह न पुमान् दर्शनात् स्पर्शरत्नं यावत् स्पर्शाज्जनयतितरां लोहमार्च न हेम ||
For Private And Personal Use Only