SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घठाके भगवन्मकुन्दाद्यभिनयः। १४५ सत्वरमुपसृत्य । चन्दनेश्वर त्वमितो गृहं गच्छ अतः परं मयैव सव्वं समाधास्यते। चन्द। यथाह भवान्। इति भगवन्तं प्रणम्य निम्कान्तः । गोपी। उपसृत्य देवं प्रणमति। दामो। भगवन्नयमाचार्य प्रणमति । भगवान्। वहित्तिं नाटयित्वा। एहोहि। इति तमालिङ्गति। गोपी। देव भट्टाचार्येण सानुचर एव निमन्त्रिताऽसि । तदित एवागच्छन्तु। इति पूर्वाहियाऽऽवासं प्रापय्य भगवतः पादधावनादिकं दन्तधावनावसानं सकलमेव परिचरणं कृत्वा भिक्षोत्तरं सुखनिविछे सति तस्मिन् सवैमनस्यम्। देव भट्टाचार्यणान्यदपि निमन्त्रितमस्ति। भग। किं तत्। गोपी। साम्प्रदायिकसन्यासिनः शकासाद्योगपट्टे ग्राहयित्वा वेदान्तं श्रावयिष्यति। भग। अनुगृहीतोऽस्मि तेन भवत्वेवं करिष्यामि। मुकु। देव आचार्येण तदवधि तेन वास्फुलिङ्गनिकरण दन्दह्यमानहृदयेन स्थीयते महाप्रसादोऽपि नाद्य स्वीकृतो ऽस्ति । भग। आचार्य बालकोऽस्मि । यदयं मां प्रति नियति तेनैवेदमवादीत्। कथमत्र दूयसे। गोपी। भगवन् श्रीचरणैरिदं मे शल्यं हृदयादुद्धियते चेत्तदा जीवितं धारयिष्ये। इति रोदिति । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy