________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
चतन्यचन्द्रोदयस्य
गोपी। भद्रं भो भद्रम् एक एव भगवानास्वाद्यास्वादकभावेन द्विधाभूत इव । पुनस्तत्रैव।
दावेव पूर्मकरुणा जगदुद्दिधी' दावेव लोचनपथं जगतो जिहाना । अन्तःस्थनन्दतनयोऽन्तरवर्त्तिदारु
ब्रह्मेति केवलमियानुभयोहि भेदः॥ गोपी। साधु भो नित्यानन्ददेव साधु तत्त्वज्ञोऽसि भगवतो गौरचन्द्रस्य। तन्मन्ये भगवद्दर्शनं कृत्वा प्रत्यावर्त्तन्ते एव सर्वे । तदावामपि भगवन्तं श्रीजगन्नाथं दृष्ट्वा त्वरितमेव पुनरेतावनुसराव । इति निष्कान्तौ ।
ततः प्रविशति पुण्डरीकाक्षदर्शनानन्दनिःस्पन्दो भगवान नित्यानन्दादयश्चन्दनेश्वरच। .
चन्द । हो महान्तः सम्पन्नं यथासुखमेव भवतां भगवदर्शनम्। नित्यानन्दादयः । यथामनोरथमेव सुसम्पन्नम्।
चन्द। खगतम्। अहो कथमसौ विलम्बते गोपीनाथाचार्यः। किमिदानीमहं करोमि न किमपि निगदितं तातच रणैः। मन्ये तस्मै एव सव्वं कथितमास्त तत्कथमयमद्यापि नायातः। इति परितोऽवलोकयति । ततः प्रविशति त्वरां नाटयन मुकुन्देन सहाचार्यः ।
आचा। एहि मुकुन्द एतेऽमोगच्छन्ति तदभयमेव संवृत्तम्। नीलाचलचन्द्रोऽपि दृटो हेमाचलगोरोऽपि दृश्यते । इति
For Private And Personal Use Only