________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठा भगवन्मुकुन्दाद्यभिनयः ।
१४३
सार्व्व । तदचमपि माध्यन्दिनकर्म्मणे प्रयामि । इति सि
ष्यो निष्कान्तः ।
गोपी । मुकुन्द एह्येहि । इति परिक्रम्य । भो भुकुन्द भट्टाचार्य्यवाग्वज्रमद्यापि मे हृदयं कृन्तति यदि परमकारुणिकेन भगवता तदुद्धियते तदैव मे मना निर्व्वति ।
मुकु । किमशक्यं तस्य भगवतः ।
गोपी । तदेहि श्रीजगन्नाथ दर्शनार्थं प्रयातं भगवन्तमनुसराव । इति निष्कामतः । नेपथ्ये । अहो यद्भुतम् ।
तुङ्गमृङ्गयुवसङ्गत फुल्लत्पुण्डरीकवरलोचनलक्ष्मि ।
हिङ्गुलस्त्र पितशुक्लचतुर्थी - शोतदीधितिकलाधरविम्बम् ॥
श्रपिच । चारुकारुणिकमारुचिराङ्ग
ब्रह्मदारुमयमेतदुदेति । आहतोऽस्य रुचिक्रन्दलवृन्दै - रिन्द्रनीलमणिदर्पणदर्पः ॥
गोपी । श्रये श्रीमुखदर्शनं जातमिव यदमी नित्यानन्दादयो मिथेो निर्व्वर्णयन्ति । पुनस्तत्रैव ।
अन्योन्येक्षणरागरञ्जिततया है। निर्निमेषेक्षण
राजेते जगतः पती उभयतो निस्पन्द सर्व्वीङ्ग कौ । दारुब्रह्मणि लीयते किमु नरब्रह्मेतदाहो नरब्रह्मण्येव हि लोयते शिव शिव ब्रह्मैव वा दारवम् ॥
For Private And Personal Use Only