________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
चैतन्यचन्द्रोदयस्य सार्व। विहस्य । भवति तदनुग्रहोऽस्ति जातस्तत्तत्त्वन्तु भवता ज्ञायत एव किञ्चित् कथ्यताम् ।
गोपी। तत्कथाविषयो न भवति अनुभववेद्यमेव भवति चेदस्यानग्रहस्त्वयि तदा भवतैवानुभाव्यम् ।
शिष्याः। खगतम्। कथमयमसाध्वसमेवानेन सह व्यधिकरणं किञ्चिज्जल्पति अथ वा आवुत्तोऽयमिति किञ्चित् परिहसतीव।
गापी। भट्टाचार्य भवता यदेनमीश्वरमुद्दिश्य किच्चियधिकरणमक्तं तेनासहिष्णुतया किञ्चिन्मयोक्तं न तावदतिगभीरैर्भवद्भिरेवमभिलपितुं यज्यते। अथ वा नैष वो दोषः।
यच्छतियो वदतां वादिना वै विवादसम्बाद वो भवन्ति। कुर्वन्ति चैषां मुहुरात्ममोहं
तस्मै नमोऽनन्तगणाय भूम्ने। सार्व। विहस्य ज्ञातं वैष्णवोऽसि ।
गोपी। सप्रश्रयम्। यद्यस्य कृपा स्यात्तदा त्वमपि भविध्यमि।
सार्व। अलं पल्लवेन। भवान् गच्छतु भगवद्दर्शनानन्तरं मालखतुरावासे तवेश्वरः सगणे वास्यतां मन्नाम्ना भगवत्यसादेन निमन्त्रयितव्यश्च। गोपी। यथाऽऽज्ञापयसि।
For Private And Personal Use Only