________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
घष्ठाङ्के भगवन्मुकुन्दाद्यभिनयः ।
शिष्याः । केन प्रमाणेन ईश्वरोऽयमिति ज्ञातं भवता ।
गोपी। भगवदनुग्रहजन्यज्ञानविशेषेण ह्यलैाकिकेन प्रमालेन। भगवत्तत्त्वं लौकिकेन प्रमाणेन प्रमातुं न शक्यते श्रलकिकत्वात् ।
शिष्याः । नायं शास्त्रार्थः । अनुमानेन न कथमीश्वरः साध्यते ।
गोपी । ईश्वरस्तेन साध्यतां नाम । न खलु तत्तत्त्वं साधयितुं शक्यते । तत्तु तदनुग्रह जन्यज्ञानेनैव तस्य प्रभाकर
णत्वात् ।
शिष्याः । क दृष्टं तस्य प्रभाकरणत्वम् ।
गोपी । पुराणवाक्य एव ।
शिष्याः । पद्यताम् । गोपी । अथापि ते देव पदाम्बुज प्रसादलेशानुगृहीत एव हि । जानाति तत्त्वं भगवन्महिम्ना
Acharya Shri Kailassagarsuri Gyanmandir
पठितम् ।
गोपी । शिल्पविशेष एव तत् ।
न चान्य एकोऽपि चिरं विचिन्वन् ॥
विचिन्चन् इति शास्त्रादिवर्त्मसु । शिष्याः । तर्हि शास्त्रैः किं तदनुग्रहो न भवति । गोपी । अथ किम् । कथमन्यथा विचिन्वन्नित्युक्तम् । शिष्याः । विहस्य तत्कथमेतावन्ति दिनानि वृथैव भवता
For Private And Personal Use Only
१४१