________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४.
चैतन्यचन्द्रोदयस्य
भग। नित्यानन्दादिभिः सह चन्दनेश्वरमादाय निष्कान्तः । सार्व। आचार्य स्थीयताम्। गोपी। अईनिष्कान्त एव मुकुन्दं हस्तेनाकृष्य प्रत्यारत्य उपविशति। साव। आचार्य अमुमालोक्य स्नेहशोकतारल्यं जातम्। नीलाम्बरचक्रवर्तिसम्बन्धादयमतीव स्नेहास्पदं नः ।
अल्पीयसि वयसि तुरीयाश्रमो गृहीतः कथमनेन॥ कस्तावदस्य महावाक्योपदेष्टा। गोपी। केशवभारती। साव। हन्त कथमयं भारतीसम्प्रदाये प्रवर्तितवान् वा। गोपी। नास्य तथा वाह्यापेक्षा केवलं त्याग एवादरः। सार्च। किं तावत् वाह्यम्। गोपी। सम्प्रदायोत्कर्षादि। सार्व। समीचीनं नोच्यते । आश्रमौज्ज्वल्यं न वाह्यम्। गोपी। केवलं गौरवायेति वाह्यमेतत्।। सार्व। गौरवेण किमपरावं तन्मयैवं भण्यते भद्रतर-साम्प्रदायिकभिक्षोः पुनर्योगपट्ट ग्राहयित्वा वेदान्तश्रवणेनायं संस्करणीयः।
गोपी। सासूयमिव । भट्टाचार्य न जायतेऽस्य महिमा भवद्भिः। मया तु यद्यद्दष्टमस्ति तेनानुमितमयमीश्वर एव इति।
मकु । खगतम्। साधु भो आचार्य साधु । दग्धं मे जीवितं निवापितमस्ति भवता।
For Private And Personal Use Only