SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठाङ्के भगवन्मुकुन्दाद्यभिनयः । १३८ नित्या | अहो अयमयं भट्टाचार्यः सर्व्वभौमः । यदयं स्वयमागतस्तर्हि साधीयानेव भवति । भट्टा । उपसृत्य । नमो नारायणाय । इति प्रणमति । भग। कृष्णे रतिः कृष्णे मतिः । सार्व्व। खगतम् । अहो अपूर्व्वमिदमाशंसनं तयं पूर्व्वाश्रमे वैष्णवो वा भविष्यति । शिष्याः स्मयन्ते । सार्व्व । स्वामिन्नितः । इति भगवन्तमादाय यथास्थानमुपवश्य स्वयमप्युपविशति । सर्व्वे उपवेशं नाटयन्ति । सार्व्व । आचार्य श्रयं पूर्व्वाश्रमे गौडीयो वा । गोपी । भट्टाचार्य्य पूर्व्वाश्रमे नवदीपवर्त्तिनो नीलाम्बरचक्रवर्त्तिनो दौहित्रो जगन्नाथमिश्रपुरन्दरस्य तनुजः । सार्व्व । सस्नेहादरम् । श्रहो नीलाम्बरचक्रवर्त्तिनो हि मत्तातसतीर्थीः । मिश्रपुरन्दरश्च मत्तातपादानामतिमान्यः । गोपी । श्रीजगन्नाथ दर्शन सौलभ्यमेषामुद्देश्यमस्ति । सार्व्व । सर्व्वथैव तद्भावि । कः कोऽत्र भो आहूयतां चन्दनेश्वरः । प्रविश्य सत्वरम् चन्दनेश्वरो भगवन्तं प्रयान्य पितरं प्रणमति । सार्व्व । चन्दनेश्वर श्रीपादस्यानुपदं गच्छ । यथाऽयं सुखेन प्रत्यक्षं यथाकामं श्रीमुखं पश्यति तथा सर्व्वेरेव विधेयं यथा केनापि बाधा न क्रियते । श्रयं मदीयो मान्यतम इति । चन्द | यथाऽऽज्ञापयन्ति श्रीचरणाः । सार्व्व । स्वामिन्नत्थीयताम् । 2 2 For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy