________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयख मुकु । आचार्य कथमबाधं यथाकाममेव भगवतो जगनाथस्य दर्शनं सम्पद्यते। गोपी। सार्वभौमस्य तथा सौभाग्योदयश्चेद्भवति । सर्वे । तईि विज्ञाप्यता स्वयमेव देवः । गोपी। स्वामिन् विना सार्वभौमसम्भाषणं श्रीजगन्नाथदर्शनं न सुलभमिति मन्यामहे भगवतो वा कोद्दगिच्छा। भग। भवदिच्छव ममेच्छा।
गोपी। तर्हि फलितं सार्वभौमस्य सुकृतद्रमेण । देव तदितइतः पदानि धारयन्त भगवन्तः ।
भग। आदिश मार्गम्। गोपी। इत इतः । इति सर्व्व परिकामन्ति । ततः प्रविशति अध्यापयन सशिष्यः सार्वभौमभट्टाचार्यः । भट्टाचार्यः । कः कोऽत्र भो जानोत श्रीजगन्नाथस्य मध्याधूपः संवृत्तो न वेति।
गोपी। अयमयं भट्टाचार्य्यस्याध्यापनोपरमः संवृत्तः। सम्प्रत्यभ्यन्तरं यास्यति तत्त्वरितमेवोपसपीमि। इति विचार्य । भगवनिहैव क्षणं विश्रमितुमईति यावदहमागच्छामि । इति सत्वरमुपसृत्य । भट्टाचार्य कोऽपि महानुभावः सम्प्राप्तोऽस्ति तदभिगम्य समानीयतामिति । सार्व। कियहरेऽसौ। गोपी। अभ्यर्ण एव। सार्व। उस्यायाभिगच्छति । शिष्याचान गच्छन्ति ।
For Private And Personal Use Only