________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठा भगवन्मुकुन्दाद्यभिनयः । १३७ गोपी। अग्रतोऽवलोक्य । अये कोऽयम । अपि कश्चिौडीयो भविष्यति। निभाल्य । अये नावदीपः । पुनर्निभाल्य । अये भगवता विश्वम्भरस्य प्रियसेवको मुकुन्द एव ततः फलितं शकुनेन। उपसृत्य । हहो मुकुन्दोऽसि। मकुन्दः । आचार्य वन्दे। गोपी। अपि कुशलं भगवतः । मुकु । इहैवागताः प्रभुचरणाः। गोपी। सानन्दम् । किंवदसि । क क । इति पुनस्तमालिङ्गति । मकु। तमादाय प्रत्यावर्त्तते। गोपी। अग्रतोऽवलोक्य । मकुन्द कोऽयं यतीन्द्रः। मुकु । सर्वं कथयति । गोपी। साश्चर्यम्।
यः केवलं प्रेमरसस्तदाऽऽसीत् स एव वैराग्यरसेन मिश्रः। खादस्तथाप्येष दृशोस्तथैव
चित्तस्य नोऽयं मधुराम्नरूपः॥ मुकु। उपसृत्य । भो देव श्रीजगन्नाथदेवेनैव भगवन्तमभ्यागमयितुं प्रतिनिधिरिव प्रहितो गोपीनाथाचार्य्यः । भगवान्। वहित्तिं नाटयन् । कासो कासौ। गोपी। अयमस्मि। इति चरणयोः पतति । भग। यालिङ्गति। गोपी। नित्यानन्दं प्रणम्य जगदानन्द-दामोदरी प्रणमति ।
For Private And Personal Use Only