________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
चैतन्यचन्द्रोदयस्य रत्ना। ते भ्रान्ताः कटकादौ साक्षिगोपालादयोऽतिप्राचीना एव ततः। गं। संस्कृतेन । दण्डवगुवि निपत्य ववन्दे तां स साऽपि तमपूजयदुच्चैः । अस्य मूटि पतताऽलमकस्माच्छेखरेण शिरसः सवलितेन ॥ रत्ना। ततस्ततः।
गं। संस्कृतेन । ततो भगवता सप्रेम किच्चिदपश्लोकितम्। तथा हि। न्यच्चत्कफोणिनमदंसमुदच्चदग्रं
निर्यकप्रकोष्ठकियदावृतपानवक्षाः ।
आरज्यमानवलयो मुरलीमुखस्य
शोभा विभावयति कामपि वामबाहुः ।। किच्च। आकुच्चनाकुलकफोणितलादिवाधा
लब्धसुता मधुरिमाऽमृतधारयैव। आप्लावयन् क्षितितलं मुरलीमुखस्य
लक्ष्मी विलक्षयति दक्षिणबाहुरेषः ।। रत्ना । ततस्ततः।
गं। पुणवि वणमागं लम्भित्र पुणेोवि साच्छिगोपालदंसणत्यं कडअ-णामधेयं राजधाणों गो (१) ।
रत्ना । दर्शनीय एवायम्। यः खलु प्रतिमाकार एव वस्तुतस्तु स्वयं भगवान् । यतः
१ पुनरपि वनमार्ग लब्धा पुनरपि शाक्षीगोपाल-दर्शना) कटकनामधेयां राजधानी गतः।
For Private And Personal Use Only