________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठाधे रत्नाकरगणयोरभिनयः ।
१२५
षष्ठाङ्कः। ततः प्रविशति रत्नाकरः।
रत्नाकरः। अहो अद्य कथमकस्मात् प्रेयसी सुरसरिदिमनस्केव दृष्टा तदस्या मनोदुःखकारणं प्रष्टव्यमस्ति । इति पुरोऽवलोक्य । कथमियं तदवस्थैव दृश्यते देवी तदुपसृत्य पृच्छामि। इति उपसर्पति। ततः प्रविशति यथानिर्दिछा गङ्गा ।
गङ्गा। इद्दी हद्दी जस्म पाअ-सेअ-सलिलत्तेण मह एदारिसं सोग्गं तस्म पहुणो चिरालं अङ्गसङ्गो लम्भिो। अदोवरो को मे भाअधेओ। तह तं लम्भित्र पुणोविण लम्भणिज्जो विदीसइ अदोवरं वा किं मे असुई। ता किं करेमि मन्दभाइणी (१)। इति चिन्तयती क्षणं तिष्ठति। रत्ना। उपसृत्य । भागीरथि कथं विमनायसे।
गङ्गा। अज्जउत्तो अज्जउत्तो कि पच्छसि मन्दभाइणी कव अहं (२)। रत्ना । भागीरथि कथमिव । गङ्गा। संस्कृतेन।
१ हाधिक् हा धिक् यस्य पाद-सेक-सलिलत्वेन मम एतादृशं सौ. भाग्यं तस्य प्रभोचिरकालमङ्गसङ्गो लब्धः। अतोऽपरः को मे भागधेयः । तथा तं लब्धा पुनरपि न लम्भनीय इव दृश्यते । अतःपरं वा कि मे अशुभम्। तस्मात् किं करोमि मन्दभागिनी। २ धार्यपुत्र धार्यपुत्र किम्पच्छसि मन्दभागिनी खस्नु अहम् ।
For Private And Personal Use Only