________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमायो भगवन्नित्यानन्दाद्यभिनयः। १२३ येनाम्माकमहो वताद्य भविता चैतन्यचन्द्रोदयः ॥ इति सोत्कण्ठमुपसर्पन्ति । अहै। यालोक्य ।
अग्रे निधाय भगवज्जननों समोयुः श्रीवासपण्डितमुखाः सुहृदस्त एते। अन्ये च बालतरुणस्थविराः किमन्य
द्देशः स एष उदपादि स एष कालः ॥ भगवान्। सत्वरमवतारं नाटयति । दौवारिकाः। सादरं प्रवेश यन्ति । भगवान्। मातरं प्रणमति । माता। सभयभक्ति वात्सल्य परितोष-शवलिताश्रुघलकमददं सं. खतेन ।
वैराग्यमेव भव किं किमु वानुभूतिभक्तिर्नु वा किमु रसः परमस्तनूमृत्। नात स्तनन्धयतयैव भवन्तमोक्षे
लब्धोऽधुनाऽपि न कदाऽपि पुनस्त्यजामि ॥ . इति सोत्कण्ठमालिङ्गति । श्रीचै।
भगवति जगन्मातमाऽतः परं फलमुत्तमं किमपि फलितुं वात्सल्याख्या लता भवति क्षमा। भवति भवती विश्वस्यैवानुपाधिसुवमलेत्यथ भगवता नूनं चक्रे क्षमापि शरीरिणी ।।
For Private And Personal Use Only