________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
चैतन्यचन्द्रोदयस्य रितीवाहं दण्डग्रहणमविशेषादकरवम्॥ अद्वै। सर्वमिदं प्रतारणमेव किन्तु “सन्यासकृच्छमः शान्तो निष्ठाशान्तिपरायण” इत्यादि नाम्नां निरुक्त्यर्थमेवैतत् । दौवा । पुरतः सानवलोक्य। अहो आश्चर्यम् ।
एतावत्यपि दुर्गमे जनघटासङ्घटनोच्चावचे सर्वेरेव यथासुखं प्रभुरसौ पारेपराद्धैर्नृभिः । अव्यौरवकाशलम्भनसुखावस्थानसुस्थैर्यथा
कामं लब्धतदोयपूर्णकरुणादृकपातमुद्दीक्ष्यते॥ न हीदमसंवादि। यतः
उत्तीर्णऽद्य भवाब्धिरद्य पिहितं दारं यमस्यापि च प्राप्नं मानुषजन्मलम्भनफलं तप्तच्च सव्वं तपः । यद्देवः करुणाकटाक्षसरसोऽदर्शति सङ्घरहो
प्रत्येकं प्रथयद्भिरात्मसुभगीभावः समुद्दष्यते ॥ नेपथ्ये परितः कोलाहलः । पुरुषाः । अहो अमो भगवज्जन्मस्थलीनिवासिनः सर्वे समागच्छन्ति तदधुना महता सम्मढून भवितव्यं वयमित इदानीमपसराम । इति सर्वे निष्कामन्ति । ततः प्रविशन्ति सर्व्व नवदीयवासिनः ।
ते।
अद्याऽऽन्ध्यं गतमेव नो नयनोरद्य प्रसन्ना दिशः भाष्काश्चाद्य जिजीविषाव्रततयः प्रोन्मीलयन्त्यकुरान् । नष्टेऽन्तःकरणे च केनचिदहो चैतन्यमप्याहितं
For Private And Personal Use Only