________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमाके भगवन्नित्यानन्दाद्यभिनयः । दौवा । निरूपयामि। इति समुच्छ्रितं स्थलमारय उद्दीविकमालोक्य च । अये कृतभिक्ष एव भगवान् । यदयम्
श्रीखण्डपकपरिलिप्ततनुर्नवीनशोणाम्बरो धवलमाल्यविराजिवक्षाः । हेमद्युतिर्विजयते हिमसान्ध्यराग
गङ्गाप्रवाहरुचिभागिव रत्नसानुः ॥ तदेते समुत्कण्ठिताः कथममुद्रक्ष्यन्ति। इति पुनर्निभाल्य। अहो साधु समाहितमदैतदेवेन यदनेनायमुच्चतरामुपकारिकामध्यारोपितो भगवान। तदधुना सर्वे सुखं द्रक्ष्यन्ति खनाम च यथार्थमनयोपकारिकयाऽकारि। पुरुषाः सर्वे सोत्कण्ठं हरिं वदेति सम्भूय निगदन्ति। ततः प्रविशति यथा निर्दिशोपकारिकातलोपवियो भगवानद्वैतादयश्च। अ। केयं लीला व्यरचि भवता योऽयमद्वैतभाजा
मत्यन्तेष्टस्तमधृत भवानाश्रमं यत्तुरोयम्। भगवान्। विहस्य ।
भो अद्वैत स्मर किम वयं हन्त नाद्वैतभाजो
भेदस्तस्मिंस्त्वयि च यदियान रूपतो लिङ्गतश्च । अहै। वागीश्वरेण किमुचितं वचनानुवचनम्। भगवान्। तत्ततोऽवधारयन्तु।।
विना सर्वत्यागं भवति भजनं न ह्यसुपतेरितित्यागोऽस्माभिः कृत इह किमद्वैत कथया। अयं दण्डो भूयान् प्रबलतरसो मानसपशो
For Private And Personal Use Only