SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमाझे भगवन्नित्यानन्दाद्यभिनयः। ११० भगवान्। सत्वरमक्षिणी समुन्नील्य। कथममी अद्वैताचार्यमहानुभावाः। नित्या । भगवन्नेवमेतत् । भगवान् । गाउँ परिष्वज्य । कथय कथमिहस्थोऽहं भवनिरवगतः कथं वा ममानुपदमेव भवानपि वृन्दावनमनुप्राप्तः । अथ वा ममैवायं स्वप्नः। अवै। सवाष्यमात्मगतम् । अहो देवस्यात्र वृन्दावनप्रतीतिरेव जाताऽस्ति प्रकाशं देव नायं ते स्वप्नः। अपितु स एवाहं पामरः। इति स्खलितं नाटयति। देवः । बाहुभ्यामालियोत्थापयन् सवाष्यम्। भवतु भो अद्वैत त्वमेव वृन्दावनं त्वय्यनवरतं भगवत्पादकमलसंयोगात्। तत् कथय कुत्राऽऽगतोऽस्मि । अहै। इयं भगवती भागीरथी इदमिदं पारे मदीयं परम् । भगवान्। वहित्तिं नाटयित्वा । श्रीपाद भवता यमुनेयमित्यभाणि। नित्या । अस्यां यमुना वर्त्तते न देव एव जानातु। भगवान्। श्रीपादस्य नाट्येनैव नाटितोऽस्मि । अहै। याशायापोत्यादि यच्छब्दे तच्छब्दे च त्वच्छब्दं दत्त्वा पुनः पठति। नित्या। भी अदेत अस्य दण्डग्रहणावधि ममैव दण्डो जातः। दिनत्रयमाहारविरहात् । देवस्य तु खानन्दभोगेनैव टप्तिस्तदलमत्र कथाप्रसङ्गतुङ्गिम्ना । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy